|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.158. अध्यायः 158
Mahabharata - Adi Parva - Chapter Topics
पाण्डवानां वारणावतप्रवेशः॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-158-0x(928)(7198)
ततः सर्वाः प्रकृतयो नगराद्वारणावतात्।
सर्वमङ्गलसंयुक्ता यथाशास्त्रमतन्द्रिताः॥ 1-158-1(7199)
श्रुत्वाऽगतान्पाण्डुपुत्रान्नानायानैः सहस्रशः।
अभिजग्मुर्नरश्रेष्ठाञ्श्रुत्वैव परया मुदा॥ 1-158-2(7200)
ते समासाद्य कौन्तेयान्वारणावतका जनाः।
कृत्वा जयाशिषः सर्वे परिवार्योपतस्थिरे॥ 1-158-3(7201)
तैर्वृतः पुरुषव्याघ्रो धर्मराजो युधिष्ठिरः।
विबभौ देवसङ्काशो वज्रपाणिरिवामरैः॥ 1-158-4(7202)
सत्कृताश्चैव पौरैस्ते पौरान्सत्कृत्य चानघ।
अलङ्कृतं जनाकीर्णं विविशुर्वारणावतम्॥ 1-158-5(7203)
ते प्रविश्य पुरीं वीरास्तूर्णं जग्मुरथो गृहान्।
ब्राह्मणानां महीपाल रतानां स्वेषु कर्मसु॥ 1-158-6(7204)
नगराधिकृतानां च गृहाणि रथिनां वराः।
उपतस्थुर्नरश्रेष्ठा वैश्यशूद्रगृहाण्यपि॥ 1-158-7(7205)
अर्चिताश्च नरैः पौरैः पाण्डवा भरतर्षभ।
जग्मुरावसथं पश्चात्पुरोचनपुरःसराः॥ 1-158-8(7206)
तेभ्यो भक्ष्याणि पानानि शयनानि शुभानि च।
आसनानि च मुख्यानि प्रददौ स पुरोचनः॥ 1-158-9(7207)
तत्र ते सत्कृतास्तेन सुमहार्हपरिच्छदाः।
उपास्यमानाः पुरुषैरूषुः पुरनिवासिभिः॥ 1-158-10(7208)
दशरात्रोषितानां तु तत्र तेषां पुरोचनः।
निवेदयामास गृहं शिवाख्यमशिवं तदा॥ 1-158-11(7209)
तत्र ते पुरुषव्याघ्रा विविशुः सपरिच्छदाः।
पुरोचनस्य वचनात्कैलासमिव गुह्यकाः॥ 1-158-12(7210)
तच्चागारमभिप्रेक्ष्य सर्वधर्मभृतां वरः।
उवाचाग्नेयमित्येवं भीमसेनं युधिष्ठिरः॥ 1-158-13(7211)
जिघ्राणोऽस्य वसागन्धं सर्पिर्जतुविमिश्रितम्।
कृतं हि व्यक्तमाग्नेयमिदं वेश्म परन्तप॥ 1-158-14(7212)
शणसर्जरसं व्यक्तमानीय गृहकर्मणि।
मुञ्जबल्वजवंशादिद्रव्यं सर्वं घृतोक्षितम्॥ 1-158-15(7213)
`तृणबल्वजकार्पासवंशदारुकटान्यपि।
आग्नेयान्यत्र क्षिप्तानि परितो वेश्मनस्तथा॥' 1-158-16(7214)
शिल्पिभिः सुकृतं ह्याप्तैर्विनीतैर्वेश्मकर्मणि।
विश्वस्तं मामयं पापो दग्धुकामः पुरोचनः॥ 1-158-17(7215)
तथा हि वर्तते मन्दः सुयोधनवशे स्थितः।
इमां तु तां महाबुद्धिर्विदुरो दृष्टवांस्तथा॥ 1-158-18(7216)
आपदं तेन मां पार्थ स संबोधितवान्पुरा।
ते वयं बोधितास्तेन नित्यमस्मद्धितैषिणा॥ 1-158-19(7217)
पित्रा कनीयसा स्नेहाद्बुद्धिमन्तो शिवं गृहम्।
अनार्यैः सुकृतं गूढैर्दुर्योधनवशानुगैः॥ 1-158-20(7218)
भीमसेन उवाच। 1-158-21x(929)
यदीदं गृहामाग्नेयं विहितं मन्यते भवान्।
तत्रैव साधु गच्छामो यत्र पूर्वोषिता वयम्॥ 1-158-21(7219)
`दर्शयित्वा पृथग्गन्तुं न कार्यं प्रतिभाति मे।
अशुभं वा शुभं वा स्यात्तैर्वसाम सहैव तु॥ 1-158-22(7220)
अद्यप्रभृति चास्मासु गतेषु भयविह्वलः।
रूढमूलो भवेद्राज्ये धार्तराष्ट्रो जनेश्वरः॥ 1-158-23(7221)
तदीयं तु भवेद्राज्यं तदीयाश्च जना इमे।
तस्मात्सहैव वत्स्यामो गलन्यस्तपदा वयम्॥ 1-158-24(7222)
अस्माकं कालमासाद्य राज्यमाच्छिद्य शत्रुतः।
अर्थं पैतृकमस्माकं सुखं भोक्ष्याम शाश्वतम्॥ 1-158-25(7223)
धृतराष्ट्रवचोऽस्माभिः किमर्थमनुपाल्यते।
तेभ्यो भित्त्वाऽन्यथागन्तुं दौर्बल्यं ते कुतो नृप॥ 1-158-26(7224)
आपत्सु रक्षिताऽस्माकं विदुरोऽस्ति महामतिः।
मध्यस्थ एव गाङ्गेयो राज्यभोगपराङ्मुखः॥ 1-158-27(7225)
बाह्लीकप्रमुखा वृद्धा मध्यस्था एव सर्वदा।
अस्मदीयो भवेद्द्रोणः फल्गुनप्रेमसंयुतः॥ 1-158-28(7226)
तस्मात्सहैव वस्तव्यं न गन्तव्यं कथं नृप।
अथवास्मासु ते कुर्युः किमशक्ताः पराक्रमैः॥ 1-158-29(7227)
क्षुद्राः कपटिनो धूर्ता जाग्रत्सु मनुजेश्वर।
किं न कुर्युः पुरा मह्यं किं न दत्तं महाविषम्॥ 1-158-30(7228)
आशीविषैर्महाघोरैः सर्पैस्तैः किं न दंशितः।
प्रमाणकोट्यां संगृह्य निद्रापरवशे मयि॥ 1-158-31(7229)
सर्पैर्दृष्टिविषैर्गोरैर्गङ्गायां शूलसन्ततौ।
किं तैर्न पातितो भूप तदा किं मृतवानहम्॥ 1-158-32(7230)
आपत्सु तासु घोरासु दुष्प्रयुक्तासु पापिभिः।
अस्मानरक्षद्यो देवो जगद्यस्य वशे स्थितम्॥ 1-158-33(7231)
चराचरात्मकं सोऽद्य यातः कुत्र नृपोत्तम।
यावत्सोढव्यमस्माभिस्तावत्सोढास्मि यत्नतः॥ 1-158-34(7232)
यदा न शक्ष्यतेऽस्माभिस्तदा पश्याम नो हितम्।
किं द्रष्टव्यमिहास्माभिर्विगृह्य तरसा बलात्॥ 1-158-35(7233)
सान्त्ववादेन दानेन भेदेनापि यतामहे।
अर्धराज्यस्य संप्राप्त्यै ततो दण्डः प्रशस्यते॥ 1-158-36(7234)
तस्मात्सहैव वस्तव्यं तन्मनोर्पितशल्यवत्।
दर्शयित्वा पृथक् क्वापि न गन्तव्यं सुभीतवत्॥' 1-158-37(7235)
युधिष्ठिर उवाच। 1-158-38x(930)
इह यत्तैर्निराकारैर्वस्तव्यमिति रोचये।
अप्रमत्तैर्विचिन्वद्भिर्गतिमिष्टां ध्रुवामितः॥ 1-158-38(7236)
यदि विन्देत चाकारमस्माकं स पुरोचनः।
क्षिप्रकारी ततो भूत्वा प्रसह्यापि दहेत्ततः॥ 1-158-39(7237)
नायं बिभेत्युपक्रोशादधर्माद्वा पुरोचनः।
तथा हि वर्तते मन्दः सुयोधनवशे स्थितः॥ 1-158-40(7238)
अपि चायं प्रदग्धेषु भीष्मोऽस्मासु पितामहः।
कोपं कुर्यात्किमर्थं वा कौरवान्कोपयीत सः॥ 1-158-41(7239)
अथवापीह दग्धेषु भीष्मोऽस्माकं पितामहः।
धर्म इत्येव कुप्येरन्ये चान्ये कुरुपुङ्गवाः॥ 1-158-42(7240)
`उपपन्नं तु दग्धेषु कुलवंशानुकीर्तिताः।
कुप्येरन्यदि धर्मज्ञास्तथान्ये कुरुपुङ्गवाः॥' 1-158-43(7241)
वयं तु यदि दाहस्य बिभ्यतः प्रद्रवेमहि।
स्पशैर्नो घातयेत्सर्वान्राज्यलुब्धः सुयोधनः॥ 1-158-44(7242)
अपदस्थान्पदे तिष्ठन्नपक्षान्पक्षसंस्थितः।
हीनकोशान्महाकोशः प्रयोगैर्घातयेद्ध्रुवम्॥ 1-158-45(7243)
तदस्माभिरिमं पापं तं च पापं सुयोधनम्।
वञ्चयद्भिर्निवस्तव्यं छन्नं वीर क्वचित्क्वचित्॥ 1-158-46(7244)
ते वयं मृगयाशीलाश्चराम वसुधामिमाम्।
तथा नो विदिता मार्गा भविष्यन्ति पलायतां॥ 1-158-47(7245)
भौमं च बिलमद्यैव करवाम सुसंवृतम्।
गूढोद्गतान्न नस्तत्र हुताशः संप्रधक्ष्यति॥ 1-158-48(7246)
द्रवतोऽत्र यथा चास्मान्न बुध्येत पुरोचनः।
पौरो वापि जनः कश्चित्तथा कार्यमतन्द्रितैः॥ ॥ 1-158-49(7247)
इति श्रीमन्महाभारते आदिपर्वणि जतुगृहपर्वणि अष्टपञ्चाशदधिकशततमोऽध्यायः॥ 158 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-158-22 दर्शयित्वा विरोधमिति शेषः॥ 1-158-29 न गन्तव्यं हास्तिनपुरमिति शेषः॥ 1-158-40 उपक्रोशाद्गर्हातः॥ 1-158-41 अयं भीष्म इति संबन्धः॥ 1-158-42 दग्धेष्वस्मास्वग्निदेषु कोपोऽधर्म इत्येव कारणं कृत्वा भीष्मोऽन्ये च कुप्येरन्॥ 1-158-44 दाहस्य दाहात्। स्पशैश्चारैः॥ 1-158-49 अत्र बिले॥ अष्टपञ्चाशदधिकशततमोऽध्यायः॥ 158 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|